SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ प्रत्यक्षपरिच्छेदः । अस्य सम्यगनुभव साधनरूपत्वादिति चेन्न । लौकिकप्रमाणोद्देशेनास्य प्रवृत्तत्वात्तद्यायकत्वे सतीश्वरज्ञानाव्यापकत्वेऽपि न दोषः । कथमेतदिति चेत् । पुरो लौकिकानामेव संशयादीनां प्रस्तूय ५५ मानत्वात् । ननु प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानीति प्रमाणविशेषलक्षणेनैव प्रवृत्तैर्मूलसूत्रैः सहास्य प्रकरणस्य विरोधः प्रमाणसामान्यलक्षणस्याप्यत्र प्रस्तुतत्वात् । न । प्रकरणत्वादेवास्य विरोधाभावात् । प्रकरणं हि मूलसूत्रातिरिक्तार्थमपि भवति । तदुक्तम् । शास्त्रेदेश सम्बद्धं शास्त्रकाय्यान्तर स्थितम् । आहुः प्रकरणं नाम ज्ञास्त्रभेदं विपश्चितः । यहा सामान्यलक्षणं विना विशेषलक्षणस्य वक्तुमशक्यत्वात् अत्र प्रमाणसामान्यलक्षणप्रणयनम् । सामान्यं विना विशेषाणां खरविषाणायमानत्वात् । तदप्युक्तम् | सामान्यलक्षणञ्चोक्ता विशेषस्यैव लक्षणम् । न शक्यं केवलं वक्तुमतोऽप्यस्य न वाच्यता ॥ इति ॥ २ ॥ अथ स्वप्रणीते प्रमाणलक्षणे सम्यगिति पदं व्यवच्छेत्तुमाह । सम्यग्ग्रहणं संशयविपर्ययापोहार्थमिति । संशयविपर्ययौ वच्यमाणस्वरूपौ । तयोः प्रमाणफलत्वेन निराकरणमपोहस्तदर्थम् । यहा संशयविपर्ययाभ्यां सकाशा दपोहो व्यावृत्तिरनुभवस्य तदर्थमित्यर्थः । Aho ! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy