________________
५४
न्यायतात्पर्यदीपिका। लक्षणान्तरादित्यनवस्थास्वरूपदौख्यम् । अज्ञाताचेत्तीतिप्रसक्तिरज्ञातः कथमवगमक इति ।
अनोच्यते । न वयं प्रमाणस्वरूपपरिज्ञानं तस्मादेव प्रमाणाप्रमाणान्तराहा ब्रमो येन त्वदुक्तः स्वाश्रयादिदोषोपनिपातः स्यात् । किन्तु लक्षणादेव । न च वाच्यं लक्षणस्यापि लक्षणा. न्तरान्निर्णयेऽनवस्थेति । अप्रतीतो लक्षणापेक्षणात् । न च विश्ववाप्यप्रतीतिः। तथाद्यप्रतीताग्निः पुमान् धूमादग्निं ज्ञाप्यते । न च स धूममप्यन्यस्माद्धेतोः प्रतीविषति । यस्तु धूममात्रेऽव्युत्पन्नो न तं प्रत्युपदेशस्तस्थ बालमूकवदनधिकारात् । ततो लक्षणात् प्रमाणस्वरूपप्रतीतिर्भवत्येव । तथाच प्रयोग: विवादास्पदं प्रमाणं सम्यगनुभवसाधनत्वात् । यत् प्रमाणं न भवति तत् सम्यगनुभवसाधनं न भवति । यथा संशयादि । सम्यगनुभवसाधनं चेदम् । तस्मात् प्रमाण मेवेति । अत्रासिद्धतादिदूषणोद्दारः खयमभ्यू ह्यः। तस्मात् स्वव्यक्त्यव्याप्तपा परव्यक्तिव्याप्तयाऽसम्भवितया च अव्यापकत्वमतिव्यापकत्वमसम्भवित्वञ्च लक्षणदोषाः । तत्र यल्लक्षणं न व्याप्नोति तदव्यापकम् । यथा वेदवित् ब्राह्मणः । इत्यत्र माणवके व्यभिचारः । यच्च लक्ष्यादतिरिके वर्तते तदतिव्यापकं यथोपवीतभृत् द्विजः। अत्र क्षत्रियादावतिव्याप्तिः । यन्न सम्भवत्येतदसम्भवि। यथा सुरापो हिजोऽत्र सुरापायित्वमसम्भवि। एतद्दोषत्रयाभावे सुस्थं लक्षणम् । तथाच सम्यगनु भवमाधनं प्रमाणमिति सुस्थं लक्षणम् ।
नन्वीश्वरज्ञाने अव्यापकमिदं लक्षणं तस्यानभवरूपत्वात ।
Aho! Shrutgyanam