________________
प्रत्यक्षपरिच्छेदः ।
लक्षणेन स्वरूपेण सिद्धस्यापि प्रमाणस्य समानासमानजातीयप्रमाणाभासप्रमेयादिभ्यो व्यावृत्तिर्व्यवहारादिव साध्यते । अन्यथा सिद्धे साधनवैयर्थ्यात् । तथाहि । प्रमाणमितरेभ्यो व्यवच्छिद्यते । प्रमाणत्वाभिसम्बन्धात् । यश्वेतरेभ्यो व्यवच्छिद्यते तत्र प्रमाणत्वाभिसम्बद्धम् । यथा संशयादि । न च तथा नेदं तस्मादितरेभ्यो व्यवच्छिद्यत इति । यद्दा विमतं प्रमाणमिति व्यवहर्त्तव्यं प्रमाणत्वाभिसम्बन्धात् । न यदेवं न तदेवं यथा संशयादि । न च तथा नेदं तस्मात्प्रमाणमिति व्यवहर्त्तव्यमेव । यो वा प्रमाणमिति शृणोति लोके न जानाति च तस्य स्वरूपं कोहगिति तं प्रति खपरजातीयव्यवच्छेदः क्रियत इति ।
ननु प्रमेयाणां स्वरूपज्ञानं प्रमाणाधीनम् । प्रमाणस्य तु स्वरूपज्ञानं किं तस्मात्परस्माद्दा । तस्माचेन । असम्भवात् । न हि सुतीक्ष्णापि कृपाणी स्वयं खं हिन्दीत स्वाश्रयापत्तेश्च । परस्माश्चेत् किं प्रमाणादप्रमाणादा । प्रमाणाश्चेत्तस्यापि स्वरूपपरिच्छित्तिस्तस्मात्परस्माद्दा । तस्मश्चेित् स एव प्रागुक्तो दोषः । परस्मादपि प्रमाणादप्रमाणादा । प्रमाणञ्चित्तस्यापि ज्ञानम् । तस्मात्परआहेत्यनत्पविकल्पावर्त्ते गर्त्ते निपातः । अप्रमाणात्संशयादेव लक्षणाद्दा । श्रद्ये कल्पे विरोधी न खल्वज्ञानरूपात्संशयादेर्ज्ञानरूपप्रमाणपरिच्छित्तिः स्यात् । द्वितीये ज्ञातादज्ञाताद्दा | ज्ञाताचेत् ज्ञातत्वं तस्मादेव लक्षणान्तरादा । श्रद्ये स्वाश्रयः । द्वितीये लक्षणान्तरस्यापि ज्ञातत्वं लक्षणान्तराद्दाच्यम् । तस्यापि
Aho ! Shrutgyanam
५३