________________
न्यायतात्पर्य दीपिका।
लब्धत्वात्तदर्थत्वात् प्रबोधस्य । ततश्च जगत्पत्याद्यसाधारणगुणविशिष्टं महेश्वरं प्रणम्य शिशुप्रबोधनिमित्तं मया भासर्वज्ञेन प्रमाणत दतदन्यलक्षणं यक्ष्यत इति वाक्यार्थः ॥ १ ॥
इह न्यायशास्त्रे चतुर्धा प्रहत्तिरुद्देशी लक्षणं परीक्षा विभागश्वेति । तत्र नाना पदार्थानां सझेपेणाभिधानमुद्देशः । उद्दिष्ट स्य स्वपरजातीयव्यावर्तको धर्मो लक्षणम् । लक्षितस्य यथालक्षणं विचारः परीक्षा । उद्दिष्टस्यैवावान्तरभेदप्रकटनं विभागः। तत्र प्रमाणत देत्यादिपदेनोद्दिष्टस्य प्रमाणस्यैव यथोद्देशं निर्देश इति न्यायात् प्राक् लक्षणमाह।
सम्यगनुभवसाधनं प्रमाणमिति ।
अत्र प्रमाणमिति लक्ष्यं शेषं तु लक्षणं भवति । किं प्रमाणम् । प्रागुक्तशब्दार्थः । किं तत् । सम्यगनुभवसाधनम्। सम्यगव्यभिचारी योऽसावनुभवो वस्तुपरिच्छेदः प्रात्यक्षिकानुमानिकशाब्दरूपः । तस्य साधनं करणमिन्द्रियलिङ्गशब्दरूपमिति । ___सम्यगित्यादिपदानि स्वयमेव व्यवच्छेत्स्यत्याचार्यस्तथापि किञ्चिदुयते । प्रमाणमित्युक्तो किं प्रमाणमिति साकांक्षं वचो व्यर्थ स्यालक्ष्यलक्षणानुपपत्तिश्च । तडावच्छित्तये साधनमिति पदम् । तथापि विद्यादिक्रियासाधनत्वेन दाबादावतिव्याप्तिस्त निवृत्तये अनुभवेति पदम्। एवमपि प्रमाणाभासेऽति. प्रसक्तिस्तंदपनुत्त्य सम्यगिति पदम् । ततः संशयादिरहितस्यार्थपरिच्छेदस्य यत्साधनं करणं तत्प्रमाणं भवतीत्यर्थः । अनेन
Aho! Shrutgyanam