________________
प्रत्यक्षपरिच्छेदः।
५१ ईखरप्रेयत्वेनेन्द्रादीनामपरत्वात् । आत्मनोऽन्यत्वेन परत्वं सांख्याभिमते प्रकृत्यपरपर्याये प्रधानेऽप्यस्तीति तयाहत्त्यर्थं समस्ततत्त्वार्थविदमिति । यस्य वस्तुनः प्रमाणोपपन्नं यत्स्वरूपं तत्तस्य तत्त्वम् । नेत्र विशिष्टा अर्थास्तत्त्वार्थाः समस्ताश्च ते तत्त्वार्थाश्च समस्ततत्त्वार्थास्तान् वेत्ति समस्ततत्त्वार्थवित् तं सर्वनमित्यर्थः । समस्ततत्त्वार्थवित्त्वं योगिवष्यस्तौति तदधनुत्त्यै प्राइ। स्वभावत इति । योगिनो ह्यष्टाङ्गयोगैश्वर्य जनितज्ञानेन समस्ततत्त्वार्थविदः स्यरसौ भमवांस्तु योगादिलेशं विनैव नित्यज्ञानवानिति तात्पर्य्यम् ॥
इह प्रमाणप्रमेय संशयप्रयोजनदृष्टान्तसिद्धान्तावयवतकनिर्णयबादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां तत्त्वज्ञानात्रिशेयसाधिगम इति। श्रीअक्षपादप्रतिपादितमूलसूत्रापेक्षया विपर्यस्ता अप्येतएव प्रमाणादय: षोड़शपदार्थाः प्रमाणत द. तदन्यलक्षणमिति पदेनाभिधेयतयोताः। अभधेयञ्च विधा प्रधानाप्रधानभेदात् । तत्र प्रधानं प्रमाणादयः पदार्थाः । अप्रधानं तल्लक्षणम् । न च वाच्यं तत्पुरुषस्योत्तरपदप्राधान्याल्लक्षणमेव प्रधानं प्राप्नोति । छात्रशतं भोजितमित्यादौ पूर्वपदप्राधान्यस्यापि दृष्टत्वात् । सम्बन्धः पुनः सामर्थ्यगम्यः स च कार्यकारणलक्षणः । तत्र कायं प्रकरणार्थपरिज्ञानम् । कारणं वचनरूपापन्न प्रकरणम् । तथा शिशुप्रबोधायेति पदेन प्रयोजनमुपन्यस्तम् । तच्चानन्तरपरम्परभेदात् वेधा। तत्र श्रोतुरनन्तरं प्रकरणार्थपरिज्ञानम् । परम्परं तु तत्त्वज्ञानानिःश्रेयसावाप्तिः । परम्परप्रयोजनं सूत्रे कस्मान्त्रोक्तमिति चेन्न। प्रबोधाख्यप्रयोजनाभिधानादेव तस्त्र
Aho! Shrutgyanam