________________
न्यायतात्पर्य्यदीपिका।
ननु शम्भोरभावानिराश्रया तबमस्येति चेन्न । तार्तीयिकपरिच्छेदे शास्त्रकारेणैव तस्य साधयिष्यमाणत्वात् । तथाप्यनुयोक्तव्यस्त्वम् । कुतः सा निराशया तदभावादिति चेन्न । अभावेनैव तत्सद्भावविभावनात् । कथमिदमिति चेत् । अभावस्य भावप्रतियोगित्वात् यस्यैव भावस्तस्यैवाभाव इति वचनाञ्च ।
तथाहि । स प्रमितोऽप्रमितो वा प्रतिषिध्यते । प्रमितश्चेत् तद्ब्राहिणैव प्रमाणन बाधः । अप्रमितश्चेत्तय तिप्रसङ्गः। नयाप्रमितो घटादिरपि प्रतिषेधुं शक्यः । तदुक्ताम् ।
लब्धरूप क्वचित्किञ्चित्तागेव निषिध्यते । विधानमन्तरेणातो न निषेधस्य सम्भवः ।
इत्यलं प्रसङ्गेन प्रकृतं प्रस्तुमः ॥
ननु जगतः पत्यादीनि पदानि किं स्वरूपपराणि व्यवच्छेदकानि वा। आदो तानि वैयर्थमास्तिवीरन् । एकनापि खरूपस्य प्रतिपादितत्वात्। हितोये किं व्यवच्छेद्यमत्रोच्यते । शं सुखं भवत्यस्मादिति व्युत्पत्त्या स्रक्चन्द नवनितादिभ्योऽपि जायमानसुखत्वेन तेषां नमस्या स्यात् । न च तन्नमस्या प्रशस्येति तन्निवृत्त्वर्थमाह। पतिमिति। स्वस्वग्रहापेक्षया सर्वेषां पतित्वमस्ति ! पातोति व्युत्पत्तेस्त हुादासाथ जगत इति । जगत इत्यत्र कवचनं जात्या। अन्यथा तेषां बहुत्वादत्र बहुवचनं न्याय्यं स्यात्ततो जगत: स्वामिनमित्यर्थः । जगत्पतित्वं देवेन्द्राणामस्तीति तावच्छेदाय परमिति । उत्कृष्टमन्याप्रेय॑मिति यावत् ।
Aho! Shrutgyanam