________________
प्रत्यक्षपरिच्छेदः ÷ ।
अथानेकं तदा लक्षणानां भूयस्त्वाल्लचणमित्यत्र बहुवचनं न्याय्यमिति चेत् सत्यम् । किन्तु एकैकस्मादेव लक्षणात् प्रमाबादि परिच्छेत्तव्यमिति प्रतिपत्त्यर्थमेकवचनं चक्रे । अन्यथा बहुत्वे ह्येकैकं बहुभिर्लक्षणैर्लक्ष्यमिति भ्रान्तेर्लक्षणं वान्योन्यलक्षणतो लक्ष्यमित्यनवस्था दौस्थ्यस्य च सम्भवात् ।
केनाभिधास्यत इत्याह । मया भासर्वज्ञेन 1 क्रियाबलादेव कर्त्तरि प्राप्ते मयेति पदं कर्तुः स्वातन्त्रयामन्त्रणार्थं स्वातन्वा स्यैव परमतत्वामृतोपदेशं प्रति धुर्यत्वात् ।
प्रेक्षावत्प्रवृत्तेः प्रयोजननिष्ठत्वेनात्वापि मित्याकाङ्गायामाह । शिशुप्रबोधायेति । अनधीततर्कशास्त्राचेह शिवो न पुनः स्तनन्धयास्तेषां तर्क प्रवेष्टुमनधिकृतत्वात् । तेन वर्षीयसा न व्यभिचारः । कदाचि
!
तस्यापि व्युत्पाद्यत्वात् । तेषां प्रकृष्टो बोधस्तत्त्वज्ञानं तस्मै प्रबोधेत्यत्र प्रथब्दोपादानेनान्यप्रकरणेभ्यः स्वप्रकरणस्य कर्त्ता वैशिष्ट्यमाचष्टे । बोधमात्रकारित्वात् तेषामस्य तु प्रबोधकारि त्वात् ।
1
४८
Aho! Shrutgyanam
प्रयोजनं वाच्य -
अधीतान्यशास्त्रा
सर्वापि क्रिया इष्टदेवतानमस्यापूर्वा भवतीति तामाचष्टे प्रणम्येति । केवलेनापि नमा नमस्याया लब्धत्वादव प्रशब्दो भक्तिश्रद्धातिशायितया नमस्यां विशिनष्टि । तमेव विशिनष्ट्चन्य इति वचनात् । तादृश्या एव तस्या धर्मनिर्माणं प्रति हेतुत्वात् । कमित्यपेचायामाह । शम्भुमिति । शं सुखं भवत्यस्मादिति शम्भुस्तं महेश्वरमित्यर्थः ।