SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ४८ न्यायतात्पर्य्यदीपिका। अथाद्यपद्यव्याख्या । सा च पदवाक्यविषया । सदुताम् । शास्त्रप्रकरणादीनां यथार्थावगमः कुतः । व्याख्यां विहाय तत्त्वजैः सा चोक्ता पदवाक्ययोः ॥ इति । तत्रापि पदकदम्बकात्मकत्वादाक्यस्यादौ पदार्थगमनिका युक्ता। सा च पदविच्छेदपूर्विकेत्यतः प्राक् पदविच्छेदः । प्रणम्य शम्भुं जगतः पतिं परं समस्ततत्त्वार्थविदं स्वभावतः । शिशुप्रबोधाय मयाभिधास्यते प्रमाणत दतदन्यलक्षणम् ॥ एवं पदविच्छेदो ग्रन्थसमाप्तिं यावत् स्वयमेवाभ्यूह्यः । अधुना पदार्थः । अभिधास्यते वक्ष्यते । अभिधास्यत इत्यस्याः क्रियायाः सकर्मकत्वात् किमपेक्षायां कर्माह। प्रमाणे त्यादि । प्रमीयते परिच्छिद्यते संशयादिव्यवच्छेदेन वस्तुतत्त्वं येन तत्प्रमाणं प्रत्यक्षानुमानागमरूपम् । तद्भेदा योगिप्रत्यक्षादयस्तदन्यत्प्रमयादिकम् । प्रमाणञ्च तज्दाश्च तदन्यच्च प्रमाणत दतदन्यानि तेषां लक्षणं स्वपरजातीयव्यावर्त्तको धर्मः। खनिश्चयसामर्थ्यात् पदार्थानां परस्परासायेण निश्चायको धर्मो वा तत् । ___ ननु प्रमाणत दादीनां किमेकं लक्षणमनकं वा। यद्येकं तहि तेषामेक्यापत्तिरेकलक्षणनिष्ठत्वादैक्यस्य । सा च विरुद्धा । प्रमाणत दादीनामाबालगोपालं भेदेन प्रतीतत्वात् । Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy