________________
प्रत्यक्षपरिच्छेदः ।
यच्चावाचि किं नमस्कारादेव विघ्नोपशम इत्यादि तदप्य. हृद्यम् । यतो नमस्कारादेव न वयं विघ्नोपशममभिदध्महे । किन्तु तज्जनितनिर्मलधर्मादेव । स चाभीष्टदेवताप्रणिधानाअनेक-सविवेकव्यापारसाध्यः । अतएव यत्र कापि विघ्नोपशमस्तनावश्यं मानसप्रणिधानाद्युत्पन्नधर्मस्यैव हेतुत्वम्। कार्यवैशिष्ट्यगम्यत्वात्कारणवैशिष्ट्यस्य । यत्र तु तत्सद्भावेऽपि विघ्नसद्भावस्तत्र धर्माधर्मयोरल्पीयस्त्वबलीयस्वी हेतू। बलीयसा चाल्पोयसो धर्षणात् ।
एतेन नित्यानित्याद्यनल्पविकल्पजालमपि निरस्तं ज्ञेयम् । यतः क्रियारूपत्वेनानित्योऽपि नमस्कारो धर्म निर्माय विनश्यति । स चाशेषविघ्नविधातनिघ्नो भवति। तथाच प्रतिपादयाञ्चकार श्रीकन्दलौकारः। स हि धर्मोत्यादकस्तिरयत्यन्तरायबीजमिति। व्यञ्चकपक्षस्य त्वस्वीकार एव परीहारः । __यदण्याचचक्षे दक्षेण नमस्कारात् कस्य प्रत्यूहस्य व्यपोह इति। तदप्यल्पम् । वर्तमानस्यैव तस्य धर्मेण तिरस्करणात् । न च वाच्यं वर्तमानस्तिरस्कियत इति । उहण्डमुद्गरदण्डादिना विद्यमानस्यैव घटादेविघटनोपलम्भात् । धर्मस्येदभेव चालङ्कर्मीणत्वं यदुपेतमपि प्रत्यूह व्यपोहति । अन्यथा तेन किमुपकतं स्यात् । वरं ततश्चावश्यं शास्त्रारम्भे देवतानमस्कारोऽन्वेष्टव्यः प्रमाणप्रतिष्ठितत्वात् ।
तथाहि विवादाध्यस्तो नमस्कारः शास्त्रारम्भे ऽवश्यं विधेयो विघ्नोपशमफलत्वात् त्रिपुरादिमन्वजापवदित्यलं कुचर्चया ।
Aho! Shrutgyanam