________________
४६
न्यायतात्पर्यदीपिका।
क्षणिका ( क्रिया) कार्यं कुर्यादिति विकल्पजालेन प्रत्यवस्थातुं शक्यत्वात् । कथं वा क्षणिको नमस्कारः कालभूयस्त्वभाविनों शास्त्रसमाप्तिं यावत्तिष्ठेत् तत्प्रत्यूह व्यपोहेच्च । नापि नित्यानित्यः परस्परपक्षोपक्षिप्तदूषणगणावकीर्णत्वात् । तदुक्तम् ।
प्रत्येकं यो भवेहोषो यो वे कथं न सः ।
इति। नापि व्यञ्जकलेन तस्य तद्दाञ्जकतया त्वयाद्याप्यप्रसाधितत्वात् ।
किञ्च नमस्कारात् कस्य प्रत्यूहस्य व्यपोहः। किम्भूतस्य भविष्यतो वर्तमानस्य वा। न तावद्भतभविष्यतोस्तयोरतीता. नागतत्वेन व्यपोहितुमशक्यत्वात्। वर्तमानस्य किं सतोऽसतो वा । न तावत्सतस्तस्य भोग्यतयोपसेदुषः परःशताभिरपि नमस्या. भिर्दुरपोहत्वात् ! असतस्त्वसत्त्वादेव तदपोहानुपपत्तेः ।
अन्यच्च। यदि नमस्कियैव प्रत्यूहव्यपोहिका स्यात्तदा प्रत्यूहदन्दह्यमानो जनो नमस्कियाभिस्तं व्यपास्य को न वं सुखवित्कुयात्। तस्माविघ्नोपशमा) नमस्कार इति यत्किञ्चिदेतत् ।
अत्र प्रतिविधीयते। यत्तावदवादि प्रक्कतप्रकरणकरणमवगणय्य नमस्कारकरणं किमर्थमित्यादि । तदेतत्सर्वं तवाप्रामाणिकत्वमेव प्रवीणयति। न खलु प्रामाणिकीभूय कश्चिद्विपश्चिच्छास्त्रारम्भसम्भावितं नमस्कारं तिरस्कर्वीत । शास्त्रारम्भे शास्त्रकारस्तस्यैव प्रस्तुतत्वात् ।
Aho! Shrutgyanam