________________
प्रत्यक्षपरिच्छेदः ।
किञ्च नमस्कारादेवेत्यचैवकारो नमस्कारेण समं विघ्नोपशमस्यान्ययोगं व्यवच्छिनत्ति । स च प्रागुक्तत्र्यभिचारयुक्त्या न प्रमाणकोटिमाटोकिष्ट । नाप्यन्यस्मादपीति पच: सूपक्षेपः । अत्रापि नियमेन तदुपादानस्यैव दृश्यमानत्वात् ।
यद्दान्यस्मादपि साध्यसिद्धी प्रेमा तस्यैवोपादानं बाललीलायितं कल्पयेत् ।
अपिच । नमस्कारादित्यचापादानोपादानं विघ्नोपशमं प्रति नमस्कारस्य निमित्तत्वं जनकत्वेन व्यञ्जकत्वेन वा व्यनक्ति । जनकत्वेन चेत्तर्हि किं नित्योऽनित्यो नित्यानित्यो वा स तज्जनकतयाभिप्रयागः । नित्यश्वेन नित्यस्य जनकत्वानुपपत्तिः । प्रशश्वदेकस्वाभाव्यात् । प्राक् पश्चाञ्चातज्जनकत्वे शास्त्रारम्भ एव तज्जनकत्वे चैकस्वभावहान्या नित्योऽप्यनित्यतां सत्यापयेत् । अप्रच्युतानुत्पन्न स्थिरैकरूपं नित्यमिति नित्यलक्षणात् । सहकारिकारणजनितसाहाय्यात् तज्जनको भविष्यतीति चेन्न । सहकारिकारणस्य तसाहाय्यकारित्वेनाद्याप्यप्रसिद्धत्वात् । प्रसिद्धत्वे वा तत्माहाय्यस्य भेदाभेदोभयोर्भेत्तुं शक्यत्वात् ।
न च नमस्कारो नित्यं शास्त्रारभे शास्त्रकारैरवश्यं क्रियत इति भवताप्यभ्युपेतत्वात् । अनित्यस्तज्जनक इति चेन्न । अनित्य: किं कतिपयक्षणावस्थायो क्षणस्थायी वा । आयक्रियारूपत्वान्नमस्कारस्य तथात्वं प्रतिपत्तुमशक्तिः क्रियायाः क्षणप्रध्वंसित्वात् । द्वितीये स्वोत्पत्तिमात्रं व्यग्रस्य क्षणिकस्य तज्जननं प्रत्यप्रभविष्णुतैव । खोत्पत्तेः प्राक् पश्चादुत्पत्तिसमसमयएव वा
Aho ! Shrutgyanam
४५