________________
न्यायतात्पय्यदीपिका ।
शास्त्रारम्भे दुरपोहप्रत्यूहव्यूहव्यपोहेन प्रचिकीर्षितन्यायसाराख्यतर्कप्रकरणपारोगतायै शिष्टाचारसमाचरणाय च समुचितेष्टदेवतानमस्कारसारं प्रेक्षावत्प्रवृत्तिनिमित्तं सम्बन्धप्रयोजनानवद्यं शास्त्रप्रतिपाद्यं शास्त्रकारचक्रचक्रवर्ती श्रोभासर्वज्ञाचार्य: प्रथमपद्येन प्रतिजानीते ।
४४
प्रणम्य शम्भुं जगतः पतिं परम् समस्ततत्त्वार्थविदं स्वभावतः ।
शिशुप्रबोधाय मयाभिधास्यते
प्रमाणतद्भेदतदन्यलक्षणम् ॥
अत्राह परः ।
ननु प्रकृतप्रकरणकरणमवगणय्यादावेव किमर्थं देवतानमस्काराविष्करणम् । विघ्नोपशमार्थमिति चेत् न ।
स्कारादेव विघ्नोपशम उतान्यस्मादपि । यद्याद्यः कल्पस्तर्हि किं यत्र यत्र नमस्कारस्तत्र तत्र विघ्नोपशमः । किंवा यत्र यत्र विघ्नोपशमस्तत्र तत्र नमस्कार इति । तत्राद्यो न निरवद्यः । कादम्बय्यादौ नमस्कारे सत्यप्यपरिसमाप्ता तदनुपलम्भात् । तर्कप्रकरणेष्वेवायं नियम इति चेन्न । तेष्वपि केषुचिनमस्कारपुरस्कारेऽप्यपरिसमाप्तुप्रपपत्तेः । न द्वितीय: मीमांसाभाष्यादी विघ्नोपशमोपालम्भेऽपि तत्प्रारम्भे नमस्कारानाविष्कारात् । तस्य तु तत्समासेव निर्णीतत्वात् ।
Aho! Shrutgyanam