________________
४०
न्यायसारः।
त्यन्तावस्थानं मोक्ष इति । कस्मात् सुखदुःखयोरविनाभाविवाद्विवेकहानानुपपत्तेः । न च मुखार्थे च प्रेक्षावतां प्रवृत्तिः कण्टकादिपरिदुःखपरिहानार्थत्वेनापि प्रवृत्तेरुपलम्भात् । इति मोहावस्थामूर्छादावस्थावदत्र विवैकिनां प्रवृत्तिर्नेत्याहुः ।
अन्ये दुःखे सति सुखोपभोगस्यासम्भवात् कण्टकादिदुःखपरिहारोऽपि मुखोपभोग एवेत्यन्यसमो दृष्टान्तः। कुतो मुक्तस्य सुखोपभोग इति चेत् । आगमात् । उत्तं हि । मुखमात्यन्तिकं यत्तबुद्विग्राह्यमतौन्द्रियम् ।
तच्च मोक्षं विजानीयात् दुष्पापमकृतात्मभिः ॥ तथा आनन्दं ब्रह्मणो रूपं तच्च मोक्षऽभिलक्ष्यते । विज्ञानमानन्दं ब्रह्मति । - मुख्यार्थे बाधकाभावान्नोपचारकल्पनान्यथासुखसंवेदनयोर्नित्यत्वात् मुक्तसंसारावस्थयोरविशेषप्रसङ्गः । इति चेन्न । न चक्षुर्घटयो: कुड्यादेरिव सुखसंवेदनयों सम्बन्धो भवतीत्यतो नाविशेष्यः । तस्य कृतकत्वेन कदाचिन्नाशप्रसङ्ग इति चेन्न । न प्रध्वंसोऽनैकान्त्यात्। वस्तुतत्त्वे सतीति चेन्न । द्रव्यादिष्वनन्तर्भाव तदसिद्ध
Aho! Shrutgyanam