SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ आगमपरिच्छेदः । ३८ शनैर्जेतव्यो वनगजेन्द्रवत्। समाधिनत्यनीकार्थेभ्यः समन्ताच्चेतसो व्यावर्तनं प्रत्याहारः । चित्तस्य देशबन्धो धारणा । तत्रैकतानता ध्यानम् । तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः। ध्यानोत्कर्षात् निर्वाताचलप्रदीपावस्थानमिवैकव चेतसो व्यवस्थानं समाधिरभिधीयते। एवमेतानि योगाङ्गानि मुमुक्षुभिः सर्वेषु ब्रह्मादिस्थानेष्वनेकप्रकारदुःखभावनयानभिरतिसजितं परं वैराग्यं महेश्वरे च परां भक्तिमाश्रित्यात्यन्ताभियोगेन सेवितव्यानि। ततोऽचिरेणैव कालेन भगवन्तमनौपम्यखभावं शिवमवितथं प्रत्यक्षतः पश्यति। तं दृष्ट्रा निरतिशयं श्रेयः प्राप्नोति। तथाचोक्तम् । यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः । तदा शिवमयं ज्ञात्वा दुःखस्यान्तो भविष्यति ॥ तमेव विदित्वातिमृत्युमेतीत्यादि च। तस्माच्छिव दर्शनान्मोक्ष इति । कः पुनरयं मोक्ष इति । एके तावदर्णयन्ति । समस्तगुणोच्छेद संहारावस्थायामाकाशवदात्मनोऽ * (:. reads देशसम्बन्धो। Ms. C. rends :-विज्ञाय । Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy