________________
न्यायसारः।
३८ . ____ आत्मतत्त्वज्ञानं तदुपासनाङ्गत्वेनापवर्गसाधनम् । स चोपासनविधि: क्लेशकर्मक्षयसमाधिलाभार्थमनुष्ठानम् । तथाचोक्तम् । तमास्वाध्यायश्वरप्रणिधानादिक्रियायोगः क्लेशतनूकरणार्थं समाधिलाभश्चेति । ततोनमादकामादिव्यपोहार्थमाध्यात्मिकादिदुःखसहिष्णुत्व-- न्तपः । प्रशान्तमन्त्रस्य दरवाचिनोऽभ्यासः खाध्यायः । परमेश्वरतत्त्वस्य प्रबन्धेनानुचिन्तनमौश्वरप्रणिधानम्।* समासतो रागदेषमोहा: क्लेशा: समाधिप्रत्यनौकाः संसारापत्तिहारण क्लेशहतुवात् । इति ॥
तथा यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टाङ्गानि। तत्र देशकालव्यवस्थाभिरभिनियता बुद्धिशुदिहेतवी यमाः । अहिंसासत्यमस्तयादयो देशकालव्यवस्थापक्षिण: पुण्यहेतवः क्रियाविशेषा नियमाः देवताप्रदक्षिणसम्ध्योपासनजपादय इति । योगकर्माविरोधिलेशजया) करणबन्ध आसनम् । पद्मक खस्तिकादि। कौष्ठस्य वायोर्गतिविच्छेदः प्राणायामो रेचकपूरककुम्भकप्रकारः । स च
* Ms. C. reads :- अनुचिन्ननं पालोचनं प्रणिधानम् अरस्य ।
Aho! Shrutgyanam