________________
आगमपरिच्छेदः। पद्यते कार्पासान्तरवदिति । एतेनैव क्षणिकत्वमपास्तम् । प्रत्यभिज्ञानाख्येन प्रत्यक्षेण स्फटिकादिष्वक्षणिकरवं गृह्यते। प्रदीपादिष्विव भान्तमिति चेत् । न। एकत्र बाध्यत्वेन भ्रान्तत्वे सर्वत्र भ्रान्तत्वकल्पनायामतिप्रसङ्गादनभ्युपगमाच्च। सादृश्यस्य क्षणिकत्वे भान्तिबीजाभाव इति।
तत्सिदमेतच्छरौरादिव्यतिरिक्त आत्मा नित्यो व्यापक इति। नित्यत्वं कुत इति चेदनादित्वात् । तदेव कथम्। जातमात्रे जन्मान्तरानुभवसूचकस्मरणलिङ्गस्य हर्षभयशोकमोहस्तन्यादेरुपलम्भात् । धमादेराश्रयसंयोगापेक्षस्य गुरुत्वादिवदाश्रयान्तर वाय्वादी क्रियाकर्तृत्वात्। अणिमाद्युपतस्य युगपदनेकशरीराधिष्ठाटवायापकत्वसिद्धिः । तथाचोक्तम् ।
आत्मनो वै शरीराणि बहूनि मनुजेश्वर । प्राप्य योगबलं कुर्यात् तैश्च कृत्स्नां महीं चरेत् ॥ भुञ्जीत विषयान् कैश्चिकैश्चिदुग्रं तपश्चरेत् ।
संहरेच्च पुनस्तानि सूर्यास्तेजोगणानिव ॥ तदेवमपरात्मतत्त्वज्ञानं परलोकसद्भावन परलोकप्रत्त्य पयोगित्वादधर्मक्षयहेतुत्वाच्च निःश्रेयसाङ्गमिति ।
Aho! Shrutgyanam