________________
आगमपरिच्छेदः ।
चेति । तव शरीरं aa शरीरं दुःखायतनत्वाद्दुःखं इन्द्रियाणि विषया बुयश्च तत्साधनभावात् सुखमपि दुःखानुषङ्गाद्दुःखम् । दुःखन्तु बाधा पौड़ासन्ताषात्मकं मुख्यत - यैवेति । तस्य निर्वर्त्तकमसाधारणकारणम् । श्रविद्याधर्माधर्मौ चेति सम्यगध्यात्मविह्निः प्रदर्शितार्थे । विपरीतज्ञानमविद्या सह संस्कारेणेति । पुनर्भवप्रार्थना तृष्णा । सुखदुःखयोरसाधारणौ हेतू धर्माधर्माविति च । हानं दुःखविच्छेदः । आत्यन्तिकमिति न कदाचित्कथञ्चित् दुःखसंबन्ध इत्यर्थः । तस्योपायस्तत्त्वज्ञानमात्मविषयम् ।
तथाचोक्तम् । आत्मा वारे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यश्चेति ।
श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः । मत्वा च सततं ध्येय एते दर्शनहेतवः ॥
३५
तरति शोकमात्मविदिति ।
1
स च विविधः । परश्चापरश्चेति । तथाचोक्तम् । “हे ब्रह्मणी वेदितव्ये परं चापरं चेति" । तचैश्वय्यादिविशिष्ट: संसारधम्मैरीषदप्यसंसृष्टः परो भगवान्महेश्वरः सर्वज्ञः सकलजगद्दिधाता । स कथं ज्ञातव्यः ।
Aho! Shrutgyanam