________________
न्यायसारः।
परोक्षानुभवकार्यानुमेयो योग्यताख्यः संबन्धः । परपक्षेऽपि संयुक्तविशेषणविशेष्यभावादिरिति। संयोगसमवायरहितस्य विशेषणविशेष्यभावानुपपत्तिरिति चेन्न। विशिष्टप्रत्ययवशेन तत्सिरिति। अनिर्दिष्टप्रवक्तृकं प्रवादपारंपर्यमैतिहमागमेऽन्तर्भूतम् । यथेह वटे यक्ष: प्रतिवसतीति ।
प्रयत्नजनिता शरीरतदवयवक्रिया चेष्टा। सा त्वनाद्यशास्त्रादिप्रसिद्धसमयबलेन पुरुषाभिप्रायमर्थविशेषं गमयतीति नागमाद्भिद्यते। लिप्यक्षरादर्थप्रतिपत्तिवदिति। तदेवं व्यवस्थितम् । एवमेतानि त्रीण्येव प्रमाणानि ।
किं पुनरीभिः प्रमाणै: प्रमातव्यमिति। उच्यते । प्रमेयम्। किं लक्षणम् । यहिषयं ज्ञानमन्यज्ञानानुपयोगित्वेन निःश्रेयसाङ्गं भवति तत्प्रमेयम् । तदेव तत्त्वतो ज्ञातव्यम् । सर्वदा भावयितव्यञ्च। नच कीटसंख्यादि तद्नानस्यानुपयोगित्वात् । तच्चतुर्विधम् । हेयं तस्य निर्वर्तकं हानमात्यन्तिकं तस्योपाय इति ।
तत्र हेयं दुःखमनागतमेकविंशतिप्रकारम् । शरीरं षडिन्द्रियाणि षविषयाः षड़बुद्धयः सुखं दुःखं
Aho! Shrutgyanam