________________
आगमपरिच्छदः ।
सत्येवोपपद्यत इति लभ्यते। अयमेवाविनाभाव इति। यत्र सामान्याकारेगााप्यन्वयग्रहणं नास्ति यथा मुख्यकारणत्वाप्रतिबद्धशक्त्योस्तवार्थापत्तिः पृथक् प्रमाणमिति चेन्न। तत्रापि केवलयतिरेक्यनुमानाव्यतिरेकात् । केवलव्यतिरेक्यर्थापत्तिरिति संज्ञाभेदमात्रम्। अन्वयाभावान्नैतदनुमानमिति चेन्न । केवलान्वयिनो व्यतिरेकाभावन प्रमाणान्तरप्रसङ्गात् । अपिच। प्रत्यक्षादिभेदानां केनचिधर्येण प्रमाणान्तरत्वप्रसङ्गस्तस्मादविनाभावबलेनार्थप्रतिपादकत्वाविशेषादर्थापत्तिरनुमानमिति स्पष्टम् ।
अल्पसंख्याविषयत्वे सति बहुत्वसंख्याविषयत्वस्य सर्वत्रोपलब्धत्वान्नानुमानात् सम्भवो भिद्यते। अभावस्य विष्वपि यथासम्भवमन्तर्भावः। तथाहि । कौरव्याद्यभावप्रतिपत्तिरागमात् । आत्मादिषु रूपाद्यभावप्रतिपत्तिरनुमानात्। भूतलादिषु घटाद्यभावप्रतिपत्तिः प्रत्यक्षादिन्द्रियव्यापारभावमावित्वात् । अन्यत्र तद्भावभावित्वं पर्यवसितमिति चेन्न। रूपादिष्विव बाधकाभावात् । संबन्धाभावो बाधक इति चेन्न । खपरपक्षयोरसिद्धत्वात्। स्वपक्षे तावपादिष्विवा
Aho! Shrutgyanam