SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ३२ न्यायसारः। पदार्थानामन्वयमात्रमिति। *[वाक्यं तु पदानामन्वयमात्रमिति ] । तन्निराकरणार्थमुपमानं निदर्शनार्थत्वेन पृथगुतम्। यथा कार्यार्थिनोऽप्रसिद्धगवयस्य प्रसिद्धगोसादृश्यमुपादायोपमानाख्येन वाच्चैन संज्ञासंत्तिसंवन्धप्रतिपत्तिः क्रियते। तथा किञ्चिन्निमित्तमुपादाय शक्रादिपदपदार्थयोरपौति । तस्मादन्यार्थत्वान्न सूत्रविरोधः । परीक्षात्वर्थापत्तिवत्प्रमाणस्य सतः प्रमाणेष्वन्तर्भावज्ञापनार्थम् । अन्तर्भावस्त्वनुमानएवास्य निराकृतो नागमे । चतुष्टाभिधानं सूत्रेषु पञ्चत्वादिनिराकरणार्थं न त्रित्वप्रतिषेधार्थम् । प्रमाणसिद्धत्वादन्तर्भावस्य । त्रित्वानभिधानादयुक्तमिति चेन्नास्य सूचकारस्यैवं स्वभावात् । यत् खसिद्धान्तमपि क्वचिन्नाभिधत्ते । यथा कृत्स्नैकदेशविकल्पादिना अवयविनिराकरण शिष्याणामूहातिशययुक्तानामवावाधिकार इति ज्ञापनार्थम् । तस्मादपमानं शब्देऽन्तर्भूतम् । __ अर्थापत्तेरप्यनुमान एवान्तर्भावोऽविनाभावबले-- नाघप्रतिपत्तिसाधनत्वात् । अन्यथा नोपपद्यत इत्युक्ते * The portion bracketed is omitted in as C Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy