________________
श्रागमपरिच्छेदः ।
तथा
तथा प्रश्नोत्तराभिधानादन्यप्रमाण निर्देशाच्च । अस्य गवयशब्दः संज्ञेति प्रतिपत्तावुपमानसिद्धिः । शब्दाश्च श्रावणादिति चेत् । एवं तर्हि गौरयमित्येवं सङ्केतेऽस्य गोशब्दः संज्ञेति प्रतिपत्तौ प्रमाणान्तरं वाच्यम् । समानन्यायत्वात् गोपिण्डान्तरेऽपि सङ्केतग्रहणे प्रमाणान्तराभिधानप्रसङ्ग इति । तथा शब्दानभिधानेऽपि प्रतिपादकप्रतिपत्तोरेवमेवाभिप्रायः ।
३१
शस्य सर्वस्य गोशब्दः संज्ञेति सामर्थ्यादेवं प्रतिपत्तिरिति चेत् समानमेतदत्रापि गोसदृशो गवय इति शब्दादुभयोरेवमेवाभिप्रायो गोसदृशार्थस्य गवयशब्दः संज्ञेति सामर्थ्यादेवं प्रतिपत्तिः । न च प्रत्यक्षएवार्थे संज्ञासंज्ञिसंबन्धप्रतीतिदर्शनात् सूवविरोध इति चेत् । न । प्रमाणनिग्रहस्थानाभ्यां दृष्टान्त हेत्वाभासादीनामिव प्रयोजनवशेन पृथग्विधानात् ।
तर्हि प्रयोजनं वाच्यम् । उच्यते । शब्दप्रामाण्यसमर्थनं प्रयोजनम् । कथं केचिदाहुः प्रत्यक्षानुमानविषयत्वे शब्दस्यानुवादकत्वम् । तदविषयत्वे संबन्धापदार्थस्याप्रसिडत्वान्न पदेन
ग्रहणादवाचकत्वम् । संबन्धग्रहणमितरेतराश्रयत्वात् । वाक्यार्थस्तु प्रसिद्धानां
Aho ! Shrutgyanam