________________
न्यायसारः।
____ कथं श्रोत्रं तावत्ममानेन्द्रियग्राह्यसमानदेशसमानधर्मापन्नार्थानां ग्रहणाय प्रतिनियतसंस्कारसंस्कार्यं न भवति। इन्द्रियत्वाच्चक्षुर्वत् । शब्दा वा प्रतिनियतसंस्कारसंस्कार्या न भवन्ति । समानेन्द्रियग्राह्यसमानधर्मापनत्वे सति युगपदिन्द्रियसंबद्दत्वात् । घटादिवत् । उत्पत्तिपक्षेऽम्ययं समानो दोष इति चेत् । न । मृत्पिण्डप्रदीपदृष्टान्ताभ्यां संस्कारव्यञ्जक वैधर्मसिद्धेरित्यलमलमतिप्रसङ्गेन। एवमेतानि त्रीण्येव प्रमाणानि । " एज्वेवोपमानार्थापत्तिसम्भवाभावैतिह्यादीनामन्तभावः । तत्र गौरिव गवय इत्युपमानं शब्देऽन्तर्भूतम् । अनेन सदृशी मदीया गौरित्युपमानमिति चेन्न। तस्य म्मृतित्वात् । पूर्वमेव हि सादृश्यविशिष्ट उपलब्धो गोपिण्डः । कस्मात् उपलब्धियोग्यत्वात् । अयोग्यत्वे वा न कदाचिदुपलभ्येतादृष्टवत् । निर्विकल्पकेन प्रत्यक्षेण पूर्व सादृश्यमुपलब्धम् । तेन तदुपलब्ध्यमि मानो न भवति। निर्विकल्पकोपलम्भेऽपि संस्कार. सहकारिसामर्थ्यादभावादिषु सविकल्पका स्मृतिदृष्टेति। संज्ञासंनिसंबद्धप्रतिपक्तिगप्तवचनकाऱ्यां ।
Aho! Shrutgyanam