________________
आगम परिच्छेदः ।
अवमितमनुमानमागमस्येदानी लक्षणमेवोच्यते । समयबलेन सम्यक्परोक्षानुभवसाधनमागमः । स विविध: । दृष्टादृष्टार्थभेदात् । तत्र दृष्टार्थानां वाक्यानां प्रायेण प्रवृत्तिसामर्थ्यात्यामाण्यमवगम्यते । अदृष्टार्थानां पुनराप्तोनात्वेनेति। कथं पुत्रकामो यजेतेत्यादिवाक्यानां प्रवृत्तिसामर्थ्यात्यामाण्यमनुमाय तत्प्रणेतुरतीन्द्रियार्थदर्शित्वेन परमाप्तत्वमवधार्य तत्पणीतानां वाक्यानामप्रामाण्ये कारणाभावात्प्रामाण्य मनुमीयते। न नित्यत्वेन । वाक्यानां नित्यत्वे प्रमागाभावात् । अनित्यत्वेन पुनर्वाच्यत्वाद्यनेकमनुमानम् । सर्वदोपलब्धानुपलब्धिप्रसङ्गश्च । विपर्ययानियामकाभावात्। अभिव्यञ्जकाभावादनुपलब्धिरिति चेत् । न। तदनिर्देशात् । वायुसंयोगविभागाविति चेत् । न। सर्वशब्दानां युगपद्ग्रहणप्रसङ्गात् ।
Aho! Shrutgyanam