SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ २८ न्यायसारः । परो ब्रूते यावदप्रयोजकोऽयं हेत्वाभास इति । तस्येदं निग्रहस्थानम् । सिद्धान्तमभ्युपेत्यानियमात्कथाप्रसङ्गोऽपसिद्धान्तः । यथा मीमांसामभ्युपेत्य कश्चिदग्निहोत्रं वर्ग साधनमित्याह । कथं पुनरग्निहोत्रक्रिया ध्वस्ता सती स्वर्गसाधिका भवतीत्यनुयुक्तः प्राह । तया क्रियया आराधितः परमेश्वरः फलं ददाति । राजादिवत् । तस्येश्वराभ्युपगमादप सिद्धान्तो नाम निग्रहस्थानम् । प्रतिज्ञातार्थविपर्य्ययस्तु प्रतिज्ञाहानिर्नाप सिद्धान्तः । हेत्वाभासाश्च यथोक्ताः हेत्वाभासलक्षणेनैव यथोक्तेन लक्षिताः । हेत्वाभासा निग्रहस्थानानौत्यर्थः । एतेन दुर्वचनकपोलवादिवादीनां साधनानुपयोगित्वेन निग्रहस्थानत्वं वेदितव्यम् । नियमकथायान्त्वपशब्दा दौनामपीति ॥ इति [ श्रोभासर्वज्ञविरचिते न्यायसा ]* अनुमानपरिच्छेदः || ५. MsAmmits the portion bracketed. Aho ! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy