SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ अनुमानपरिच्छेदः । २५ प्रकृतार्थानुपयोगिशास्त्रान्तरमुपदिशतोऽर्थान्तरं निग्रह स्थानमिति । वर्णक्रमनिर्देशवन्निरर्थकम् । यथा शब्दोऽनित्यः । कचटतपानां गजडदबत्वात् । भघटधवदिति । परिषत्प्रतिवादिभ्यां चिरभिहितमपि अविज्ञातमविज्ञातार्थम् । यद्वाक्यं वादिना चिरभिहितमप्यप्रतौतप्रयोगादतितोच्चारणादिना निमित्तेन परिषत्प्रतिवादिभ्यां न ज्ञायते तदज्ञानसंवरणायोक्तं निग्रहस्थानमिति । पौर्वापर्यायोगादप्रतिसम्बद्धार्थम पार्थकम् । यथा दशदाडिमानि षट् पूपाः कुण्डमजाजिनमित्येवमादि । अवयवविपर्यासवचनमप्राप्तकालम् । प्रतिज्ञादी- नामवशात्क्रमस्तेषां विपर्ययेणाभिधानमप्राप्तकालं नाम हीनमन्यतमेनाप्यवयवेन निग्रहस्थानम् । न्यूनम् । साधनाभावेन साध्यस्यासिद्धेः * । हेतूदाहरणाधिकमधिकम् । एकेन कृतार्थत्वादि तरानर्थ क्यात् । Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy