________________
न्यायसारः।
___ शब्दार्थयोः पुनर्वचनं पुनरुक्तम्। अन्यत्रानुवादात् । सार्थकं पुनरभिधानमनुवादः । तातिरेकेण पुनरभिधानं पुनरुक्तम् । यथा नित्यः शब्दो नित्यः शब्द इति शब्दपुनरुक्तम् । नित्यो ध्वनिरविनाशी शब्द इत्यर्थ पुनरुतम् । अर्थादापन्नस्य स्वशब्देन पुनर्वचनं पुनरुतम्। साधोदाहरगोऽभिहिते वैधोदाहरगामिति। कथं पुनस्तन्निग्रहस्थानम् । *कथावसानविरोधित्वादेकेन कृतकत्वादितरानर्थक्यादिति।
विज्ञातार्थस्य परिषदा बिरभिहितस्याप्रत्युच्चारगामननुभाषणं प्रतिवादिनो निग्रहस्थानम् । अप्रत्यचारयन् किमाश्रयः परयक्षप्रतिषेधं कुर्यादिति । अविजातार्थञ्चाजानम्। यहाक्यं त्रिरभिहितमपि परिषदवगतार्थं प्रतिवादी प्रत्युच्चारयन्नपि नार्थतः सम्यगधिगच्छति, तदज्ञानं नाम प्रतिवादिनो निग्रहस्थानम् । कथामभ्युपगम्य तूशीभावः प्रतिभावादिप्रतिवादिनी. निग्रहम्थानम् ।
* Hy. ('. reutis कथावसानविरोधित्वादित रानर्थक्यादिति ।
Aho! Shrutgyanam