________________
न्यायसार;
मशकार्थोऽयं धूम इति निर्देशः । विवादास्पदीभूतं सर्वमनित्यमित्येतत्प्रतिज्ञान्तरं निग्रहस्थानम् । हेवन्तरवदिति ।
प्रतिज्ञाहेत्वोर्विरोध: प्रतिनाविरोधः। यथा गुणव्यतिरिक्तं ट्रव्यं भेदेनानुपलम्भादिति।
पक्षप्रतिषधे प्रतिज्ञापनयनं प्रतिज्ञासन्यासः । यथानुष्णोऽयमग्निरित्यस्य प्रतिषेधे वाद्याह । सस्यश्वध्वमहो मध्यस्थाः साक्षिणो नाहमनुष्णमग्निं ब्रवौमौत्यनुलोपालम्भोऽयमित्येतव्यतितासन्यासलक्षणं निग्रहस्थानमिति।
अविशेषोक्त हेतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरम्। यथा नित्या वेदाः अस्मयमाणकर्तृकत्वादित्यस्य जीर्णकूपारामादिभिरनैकान्तिकत्वेन प्रतिषधे सम्प्रदायाविच्छेदे सतीति विशेषमिच्छतो हेत्वन्तरं* पूर्वस्यासाधकस्योपादानात् ।
प्रकृतादादप्रतिसंबदार्थमर्थान्तरम् । यथा शब्दो नित्यः प्रमेयत्वादिति हेतुः । हेतुश्च हिनोवेर्दातोस्तुन् प्रत्यये कृते कृदन्तं पदमित्यादि प्रसक्तानुप्रसक्त्या
*
Ms. C. realis here निग्रहस्थानम् ।
Aho ! Shrutgyariam