________________
न्यायसारः।
लम्भात् घटादिवत् । तदनुपलब्धरनुपलम्भादभावसिद्दी तबिपरीतोपलापपत्तेरनुपलब्धिसमः। तस्य बुद्ध्यादेः कार्यत्वस्यानुपलब्धेरनुपलम्भादभावसिद्धौ तविपरीतोपलब्धापपत्तेः । प्रागूढमपि सद्भावः सेत्स्यतीत्यभिप्रायः। * अनुपलम्भात्मकत्वादनुपलधेरहेतुः । नास्तीतिज्ञानमनुपलब्धिः । सा च तत्स्वभावतया प्रत्यात्मकसंवेद्या। तदनुपलब्धिरसिद्धेत्यभिप्रायः ।
नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तनित्यसमः । अनित्यत्वधर्मस्य नित्यं सर्वदा सद्भावे धर्मिण: शब्दस्य सर्वदा सद्भावः । अथानित्यत्वं सर्वदा नास्ति तथाप्यनित्यत्वाभावानित्य इति । अनित्यत्वस्य सर्वदाभ्युपगमानित्यत्वविरोधः । अनभ्युपगमे चासिद्धो हेतुः । प्रध्वंसश्चानित्यत्वम्। न च तस्मिन् सति शब्दसद्भाव इति । एतेनान्यत्वस्यात्मनोऽनन्यत्वादन्यत्वन्नास्तीत्यादौन्यसदुत्तराणि प्रत्युक्तानि। निमित्तान्तरात् संज्ञान्तरे योज्यमानेऽप्यर्थे तथा भावस्थ निराकर्तुमशक्यत्वात्। आनल्यात् सर्वाणि जात्युत्तराण्युदाहर्तु
.
.
.
.
.
-
-
-
.
..
-
-
.
.
.
*
Is C. adds here अलोन्सरम् ।
Aho! Shrutgyanam