________________
अनुमानपरिच्छेदः । प्रतिषेधानुपपत्तिश्च बैकाल्यासिद्धः स्ववचनेनैव प्रतिषेधासिद्धौ हेतुसिद्धिरिति सूत्रार्थः ।
एकधर्मोपपत्तेरविशेषे स विशेषप्रसङ्गात् सद्भाघोपपत्तेरविशेषसमः । यदि घटशब्दयोरेकस्य कार्यत्वस्योपपत्तेरनित्यत्वेनाविशेष दृष्यते। सर्वभावानां तर्हि सद्भावोपपत्तेरविशेषः प्रसज्येत । तवेदमुच्यते । सर्वथा विशेषे प्रत्यक्षादिविरोधः । अनित्यत्वेनाविशेषे अनुमानागमविरोधः । केनचिदविशेषे प्रमेयत्वादिना सिद्धसाधनमिति।
निर्दिष्ट कारणाभावेऽप्युपलम्भाटुपलब्धिसमः । पृथिव्यादिषु कार्य्यवसिद्धये निर्दिष्टस्य सावयवत्वस्याभावेऽपि बुद्ध्यादौ कार्यत्वमुपलब्धमिति । * सपक्षेकदेशस्यापि धूमादेर्गमकत्वदर्शनादप्रतिषेधः । कथं तर्हि बुद्ध्यादेः कार्य्यवसिद्धिरित्यत आह । कारणान्तरादपि तद्धर्मोपपत्तेरप्रतिषेधः। प्रमाणान्तरादपि कार्यत्वसिद्धेरित्यर्थः ।
प्रमाणञ्चानुपलब्धिकारणेष्वसत्म प्रागूईचानुप
•
Ms. C. ackls here अवोत्तरम् ।
Aho! Shrutgyanam