________________
न्यायसारः ।
१८
साधर्म्यवैधाभ्यामुपसंहारे तइर्मविपर्ययोपपत्तः साधर्म्यवैधर्म्यसमौ। यथाऽनित्यः शब्दः कृतकवाहटवदित्युक्ते जातिवाद्याह । यद्यनित्यघटसाधात्कृतकत्वादनित्यः शब्द इष्यते, तर्हि नित्याकाशसाधादमूर्तत्वान्नित्यः प्राप्नोति । यदिच नित्याकाशवैधात्कृतकत्वादनित्य इष्यते घटादिवत्, तर्हि अनित्यघटवैधादमूर्त्तत्वान्नित्यः प्राप्नोति। विशेषाभावादिति। अनयोमत्तरम्। अविनाभाविनः साधमास्य च वैधर्म्यस्य च हेतुत्वाभ्युपगमादप्रसङ्गो धमादिवदिति ।
साध्यदृष्टान्तयोधर्मविकल्याटुभयसाध्यत्वाच्चोत्कपिकर्षवर्ध्यावर्ण्य विकल्पसाध्यसमाः। साध्ये दृष्टान्तादनिष्टधर्मप्रसङ्ग उत्कर्षसमः। दृष्टधर्मनिवृत्तिरपकर्षसमः । यदि कृतकत्वाइटवदनित्यः शब्दः तहदेव सावयवः स्यात् । अथ नैवमनित्योऽपि तहिं न स्थादविशेषात् । अश्रावणश्च घटो दृष्टः शब्दोऽपि श्रावणो न स्यादविशेषादिति उत्कर्षापकर्षसमौ ।
* In ms.
Taig is omitted.
Aho! Shrutgyanam