SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ अनुमानपरिच्छेदः । सम्भवतोऽर्थस्यातिसामान्ययोगादसङ्गतार्थकल्पना सामान्यच्छलम्। अहो नु खल्पसौ ब्राह्मणचतुर्वेदाभिन इत्युक्ते केनचित् न्यायवाद्याह । किमवाश्चर्यं सम्भवति ब्राह्मणे चतुर्वेदाभिज्ञत्वमिति । तव च्छलवाद्याह । न । व्रात्येनानैकान्तिकत्वात् । तस्यापि पूर्व्ववत् निग्रहस्थानं वाच्यम् । कस्माद्धेतुत्वेनाविवचितत्वात् । * किं तर्हि ब्राह्मणत्वे सति चतुर्वेदाभिज्ञत्वमाश्चर्यकारणं न भवतीत्यभिप्रायः । सुक्षेत्रे शालिसम्पत्तिवदिति । उपचारप्रयोगे मुख्यार्थकल्पनया प्रतिषेध उपचारच्छलम् । यथा मञ्च क्रोशन्तीत्युक्ते च्छलवाद्याह । पुरुषाः क्रोशन्ति न मञ्चास्तेषामचेतनत्वात् । तस्यापि पूर्व्ववन्निग्रहस्थानं वाच्यम् । उभयथा लोके शास्त्रे च शब्दप्रयोगदर्शनादिति । प्रयुक्ते हेतौ समीकरणाभिप्रायेण प्रसङ्गो जातिः । बहवश्वानयोः पराजयनिमित्तं निग्रहस्थानमिति । सूक्ष्मा भेदास्तेषां कियन्तो भेदा लक्षणोदाहरणाभ्यां प्रदर्श्यन्त इति । * Mss. Creads :-ब्राह्मणे चतुर्वेदाभिज्ञत्वाशङ्का कथं तर्हि । ३ Aho ! Shrutgyanam १७
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy