________________
न्यायसारः।
१६ शिष्यो गुरुणा सह प्रश्नहारेणैवेति। यत्र विजिगीषुविजिगीषुणा सह लाभपूजाख्यातिकामो जयपराजयार्थ प्रवर्त्तते सा विजिगीषुकथा। वीतरागो वा परानुग्रहार्थं ज्ञानामुरसंरक्षणार्थञ्च प्रवर्तते। सा चतुरङ्गा । वादिप्रतिवादिसभापतिप्रालिकाङ्गा । विजिगीषुकथा जल्पवितण्डासंज्ञोक्ता। तथाचाह । तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे बीजप्ररोहसंरक्षणार्थ कण्टकशाखावरणवदिति । ___ यथोक्तोपपन्नच्छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः । स प्रतिपक्षस्थापनाहीनो वितण्डेति । वचनविघातोऽर्थविकल्पोपपत्या छलम्। तत्तिविधम्। वाक्छलं सामान्यच्छलमुपचारच्छलं चेति। यथा अविशेषेणाभिहितेऽर्थे वक्तुरभिप्रायादर्थान्तरकल्पना वाक्छलम्। यथा नवकम्बलोऽयं माणवक इत्युक्ते छलकवाद्याह। कुतोऽस्य नव कम्बला इति। तस्याप्रतिपत्तिलक्षणं निग्रहस्थानं वाच्यम् । नवः कम्बलो यस्येति वक्तुरभिप्रायापरिज्ञानादुत्तरापरिज्ञानाहा *[विप्रतिपत्तिर्वा विपरीतपरिज्ञानादिति ।]
*
Portion bracketed is onnitted in msg C.
Aho! Shrutgyanam