________________
अनुमानपरिच्छेदः।
उपनयानन्तरं सहेतुकं प्रतिज्ञावचनं निगमनम् । तदपि विविधम् । साधर्म्यवैधय॑भेदात् । तस्मादनित्य एवेति साधयं निगमनम् । नचेदमनर्थकम् । साध्यविरुद्धार्थाभावप्रतिपादकप्रमाणसूचकत्वादस्य । न च तदन्तरेगा साध्यावधारणमुपपद्यते । ____ तथाचोक्तम् । विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णय इति । निगमनाभिधानमसाधनाङ्गमभ्युपगम्य बाधक प्रमाणमभ्युपगच्छतो निग्रहस्थानं प्रसज्यते । निगमनाथत्वाबाधकस्य निगमनार्थविप्रतिपत्तौ बाधकप्रमाणोपन्यासो युक्तः । हेत्वर्थविप्रतिपत्ती तत्तत्माधकप्रमाणोपन्यासवदिति। सोऽयं परमो न्यायः विप्रतिपन्नपुरुषप्रतिपादकत्वात्कथाप्रवृत्तिहेतुत्वाच्च ।
वादिप्रतिवादिनोः पक्षप्रतिपक्षपरिग्रहः कथा। सा द्विविधा। वीतरागकथा विजिगीषुकथा चेति। यत्र वीतरागो वीतरागेगौव सह तत्त्वनिर्णयार्थ साधनोपालम्भौ करोति सा वीतरागकथा वादसंनयोच्यते। तथा चोक्तम्। प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो बादः । तं प्रतिपक्षहीनमपि वा कुर्य्यात् प्रयोजनार्थत्वेन । यथा
Aho! Shrutgyanam