________________
न्यायसारः ।
माहाराज्यं करिष्यत्ययं सोमवंशोभूतत्वात् विवक्षितराजपुरुषवत् । सन्दिग्धसाधनो यथा नायं सर्वतो रागादिमत्त्वात् रथ्यापुरुषवत्। सन्दिग्धोभयो यथा । खगं गमिष्यत्ययं विवक्षितः पुरुषः समपार्जितशक्लधर्मवाद्देवदत्तवत् । सन्दिग्धाश्रयो यथा। नायं सर्वनो बहुवक्तृत्वात् भविष्यद्देवदत्तपुत्रवत् । सन्दिग्धसाध्याव्यात्तो यथा। यो माहाराज्यं न करिष्यति स सोमवंशोभूतो न भविष्यति यथाऽन्यो राजपुरुषः। सन्दिग्धसाधनाव्यात्तो यथा। यस्तु सर्वतः स रागादिरहितः यथा समस्तशास्वाभिजः । सन्दिग्धोभयाव्यात्तो यथा । यः स्वर्ग न गमिष्यति स समुपार्जितशुक्लधर्मोऽपि न भवति यथा दुःस्थः पुरुषः । सन्दिग्धाश्रयो यथा। यः सर्वजः स बहुवक्तापि न भवति यथा भविष्यद्देवदत्तपुत्रः ।
दृष्टान्ते प्रसिद्धाविनाभावस्य साधनस्य दृष्टान्तोपमानन पक्षे व्याप्तिख्यापकं वचनमुपनयः। स विविधः । साधोपनयो वैधोपनयश्चेति। तथाच तीव्रादिधर्मोपतः शब्द इति साधोपनयः । तथा तीवादिधर्मोपेतः शब्दो न भवति इति वैधोपनयः ।
Aho! Shrutgyanam