________________
अनुमानपरिच्छेदः ।
उदाहरणलक्षणरहिता उदाहरणवदवभासमाना उदाहरणाभासाः । ते चानेकप्रकाराः । यथा अनित्यं मनो मूर्त्तत्वादित्यस्मिन् प्रयोगे सर्वे उदाहरणाभासा उच्यन्ते । यन्मूर्त्तं तदनित्यं दृष्टं यथा परमाणुरिति साध्यविकलः । यथा कर्मेति साधनविकलः । यथाकाशमित्युभय विकलः । यथा खरविषाणमित्याश्रयहीनः । घटवदित्यव्याप्ताभिधानम् । यदनित्यं तन्मूर्तं दृष्टमिति विपरीतव्याप्तग्रभिधानम् । यदनित्यं न भवति तन्मूर्त्तमपि न भवति यथा परमाणुरिति साध्याव्यावृत्तः । यथा कर्मेति साधनाव्यावृत्तः । यथा घट इत्युभयाव्यावृत्तः । यथाकाशपुष्पमित्याश्रयहीनः । यथाकाशमित्यव्याप्ताभिधानम् । यन्मूर्तं न भवति तदनित्यमपि न भवति यथाकाशमिति विपरीतव्याप्तप्रभिधानम् । इत्येतौ वचनदोषौ
१३
तत्राद्याः षट् साधर्म्यदाहरणाभासाः । इतरे वैधम्र्म्मोदाहरणाभासाः । अन्ये तु सन्देहद्वारेणापरानष्टावुदाहरणाभासान्वर्णयन्ति । सन्दिग्धसाध्यो यथा ।
* C. adds : - यथा साध्यविकलसाधनविलोभयविकलाश्रय होनाः ।
Aho ! Shrutgyanam