________________
न्यायसारः।
प्रकरगासमस्योदाहरणं यथा। नित्यः शब्दः पक्षसपक्षयोरन्यतरत्वात् गगनवदिति । एकत्र तुल्यलक्षणविरुद्धहेतुद्दयोपनिपातो विरुडाव्यभिचारीव्येके। यथा नित्यमाकाशं अमूर्त्तद्रव्यत्वात् आत्मवदिति। एवमनित्यमाकाशमम्मदादिवाद्येन्द्रियग्राह्यविशेषगुणाधारत्वात् घटवत् । स खलु पुरुषविशेषमपेक्षमाणो हेत्वाभासो भवति अन्यतरासिद्धवदिति।
सम्यग्दृष्टान्ताभिधानमुदाहरणम् । तद्दिविधम् । साधोदाहरणं वैधयोदाहरणं चेति। तत्रान्वयमुखेन दृष्टान्ताभिधानं साधोदाहरणम् । यथा अनित्यः शब्दः तौवादिधर्मोपेतत्वात् । यद्यत्तीव्रादिधर्मोपेतं तत्तदनित्यं दृष्टं यथा मुखादि। व्यतिरेकमुखेन दृष्टान्ताभिधानं वैधयॊदाहरणम् । यथा यदनित्यं न भवति तत्तौबादिधर्मोपेतं न भवति । यथाकाशमिति । एतेनोदाहरणाभासानामनुदाहरणत्वमुक्तां भवति ।
* B reads: ---अनित्यः शब्दः पक्षपक्षयोरम्पतरस्थात् सपक्षदिति ।
Aho! Shrutgyanam