________________
अनुमानपरिच्छेदः । यथा । अनित्यः शब्दः आकाशविशेषगुणत्वात् । विद्यमानसपक्षविपक्षः पचैकदेशवृत्तिर्यथा । सर्व्वं द्रव्यमनित्य' क्रियावत्त्वात् । अविद्यमानविपक्षो विद्यमानसंपक्षः पक्षव्यापको यथा । सर्व्वं कार्य्यं नित्यं उत्पत्तिधर्मकत्वात् । अविद्यमानविपक्षो विद्यमानसपक्षः पचैकदेशवृत्तिर्यथा । सर्व्वं कार्य्यं नित्यं सावयवत्वात् । *[ अविद्यमानसपतो विद्यमानविपक्षः पचैकदेशवृत्तियथा । आकाशविशेषगुणः शब्दः अपदात्मकत्वात् । ]
कालात्ययोपदिष्टभेदास्तु | प्रत्यक्षविरुद्धो यथा । अनुष्णोऽयमग्निः कृतकत्वात् । अनुमानविरुद्धो यथा । अनित्याः परमाणवो मूर्त्तत्वात् । आगमविरुडो यथा । ब्राह्मणेन मुरा पेया द्रवद्रव्यत्वात् चौरादिवत् । प्रत्यचैकदेशविरुst यथा । सव्र्व्वं तेजोऽनुष्णां रूपित्वात् । अनुमानैकदेशविरुद्धो यथा । नित्याश्रयाः द्रवत्वरूपरसगन्धस्पर्शा नित्या: अप्रदेशवृत्तिसमानजात्यारम्भकत्वे सति परमाणुवृत्तित्वात् तद्गतैकत्ववदिति । चागमैकदेशविरुद्धो यथा । सर्व्वेषां देवर्षीणां शरीराणि पार्थिवानि शरीरत्वादस्मदादिशरीरवदिति ।
* The portion bracketed is omitted in mss. C
Aho ! Shrutgyanam
११