________________
न्यायसारः ।
लेनोभयव्यवहारविषयत्वात्। तुलायां प्रमाणप्रमेयव्यवहारवत् ।
अनैकान्तिकभेदास्तु । पक्षत्रयव्यापको यथा । अनित्यः शब्दः प्रमेयत्वात्। पक्षव्यापको विपक्षसपलैकदेशवृत्तिर्यथा। अनित्यः शब्दः प्रत्यक्षत्वात् । पक्षसपक्षव्यापको विपतैकदेशवृत्तिर्यथा। अयं गौविषाणित्वात्। पक्षविपक्षव्यापकः सपक्षविपक्षकदेशवृत्तिर्यथा। नायं गौविषाणित्वात् । पक्षत्रयैकदेशत्तियथा। अनित्या पृथिवी प्रत्यक्षत्वात् । पक्षसपक्षकदेशत्तिर्विपक्षव्यापको यथा। द्रव्याणि दिक्कालमनांसि अमूर्तत्वात्। पक्षविपक्षैकदेशवृत्तिः सपक्षव्यापको यथा। न द्रव्याणि दिक्कालमनांसि अमूर्त्तत्वात्। सपक्षविपक्षव्यापकः पनैकदेशवृत्तियथा । न द्रव्याण्याकाशकालदिगात्ममनांसि क्षणिकविशेषगुणरहितत्वात् ।
अनध्यवसितभेदास्तु। अविद्यमानसपक्षविपक्षः पक्षव्यापको यथा। सर्वमनित्यं सत्त्वात् । अविद्यमानसपक्षविपक्षः पक्षकदेशत्तियंथा। सर्वमनित्यं कार्यत्वात्। विद्यमानसपक्षविपनः पक्षव्यापको
Aho! Shrutgyanam