SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ अनुमानपरिच्छेदः । वाद्यसिदत्वेन विवक्षितास्तदोभयासिद्धा भवन्ति । यदा त्वन्यतरवाद्यसिद्धत्वेन विवक्षितास्तदान्यतरासिद्धा भवन्ति । विरुद्धभेदास्तु सति सपक्षे चत्वारो विरुद्धाः । पक्षविपक्षव्यापको यथा। नित्यः शब्दः कार्यत्वात् । विपक्षकदेशवृत्तिः पक्षव्यापको यथा। नित्यः शब्दः सामान्यवत्त्वे सत्यम्मदादिवाह्येन्द्रियग्राह्यत्वात् । पक्षविपक्षकदेशत्तियथा। नित्यः शब्दः प्रयत्नानन्तरीयकत्वात । पक्षकदेशवृत्तिविपक्षव्यापको यथा। नित्या पृथिवी कृतकत्वात्। असति सपक्षे चत्वारो विरुद्धाः। पक्षविपक्षव्यापको यथा। आकाशविशेषगुणः शब्दः प्रमेयत्वात् । पक्षविपक्षकदेशवृत्तिर्यथा। आकाशविशेषगुणः शब्दः प्रयत्नानन्तरीयकत्वात। पक्षव्यापको विपक्षकदेशवृत्तियथा। आकाशविशेषगुणः शब्दो वाह्येन्द्रियग्राह्यत्वात् । विपक्षव्यापकः पचैकदेशवृत्तियथा । आकाशविशेषगुणः शब्दः अपदात्मकत्वात् । ननु चत्वार एव विरुद्धभेदा नान्ये तेषामसिद्धलक्षणोपपन्नत्वात् । नैष दोषः। उभयलक्षणोपपन्न Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy