SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ न्यायसारः। शब्दः घटस्य कृतकत्वात् । विशेष्यासिद्धो यथा । अनित्यः शब्दः सामान्यवत्त्वे सति चाक्षषत्वात । विशेषणासिद्धो यथा। अनित्यः शब्दश्चाक्षुषत्वे सति सामान्यवत्त्वात् । भागासिहो यथा । अनित्यः शब्दः प्रयत्नानन्तरीयकत्वात्। माश्रयासिद्धो यथा अस्ति प्रधानं विश्वपरिणामित्वात्। आश्रयैकदेशासिद्धो यथा। नित्याः प्रधानपुरुषश्वराः अकृतकत्वात् । व्यर्थविशेष्यासिद्धो यथा अनित्यः शब्दः कृतकत्वे सति सामान्यवत्त्वात् । व्यर्थविशेषणासिद्दी यथा। अनित्यः शब्दः सामान्यवत्त्वे सति कृतकत्वात् । सन्दिग्धासिद्धो यथा धूमवाष्पाद्यविवेकनानिश्चये कश्चिदाह अग्निमानयं प्रदेशो धूमवत्त्वात् । सन्दिग्धविशेष्यासिद्धो यथा। अद्यापि रागादियुक्तः कपिलः पुरुषत्वे सत्यनुत्पन्नतत्त्वज्ञानत्वात् । सन्दिग्धविशेषणासिद्धो यथा। अद्यापि रागादियुक्तः कपिलः सर्वदा तत्त्वज्ञानरहितत्वे सति पुरुषत्वात्। विरुद्ध विशेष्यासिद्धो यथा अनित्यः शब्दः अमूर्त्तत्व सत्यकृतकत्वात्। विरुद्ध विशेषणासिद्धी यथा अनित्यः शब्दः अकृतकत्वे सत्यमूर्त्तत्वात्। एते ऽसिद्धभेदा यदोभय Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy