________________
अनुमानपरिच्छेदः। वृत्तिः पक्षव्यापको विद्यमानसपक्षो विपक्षायावृत्तः । केवलव्यतिरेकी यथा सर्व कार्य सर्ववित्कर्तृपूर्वकं कादाचित्कत्वात् । यत् सर्ववित्कर्तृपूर्वक नं भवति तत्कादाचित्कमपि न भवति। यथा आकाशादि। प्रसङ्गहारेण वा यथा नंदं निरात्मकं जौवच्छरीरम् अप्राणादिमत्त्वप्रसङ्गात् लोष्ट्रवदिति । एतेन हेत्वाभासानामहेतुत्वमुक्तं भवति ।
हेतुलक्षणरहिता हेतुक्दवभासमाना हेत्वाभासाः । ते चानेकप्रकाराः । असिद्ध-विरुद्धानकान्तिकानध्यवसितकालात्ययोपदिष्टप्रकरणसमाः। तत्रानिश्चितपक्षवृत्तिरसिद्धः । पक्षविपक्षयोरेव वर्तमानो हेतुविरुद्धः । पक्ष-सपक्ष-विपक्षवृत्तिरनैकान्तिकः। साध्यासाधकपक्षएव वर्तमानी हेतुरनध्यवसितः । प्रमाणबाधिते पक्षे वर्तमानी हेतुः कालात्ययोपदिष्टः । खपक्षपरपक्षसिद्धावपि विरूपो हेतुः प्रकरणसमः । यद्यपि चैषां सूक्ष्मो भेदोऽनन्तत्वान्न शक्यते वक्तुं तथापि स्थूलदृष्टिमाश्रित्य कियन्तो भेदाः प्रदश्यन्ते ।
असिद्धभेदास्तावत् । स्वरूपासिद्धो यथा अनित्यः शब्दश्चाक्षुषत्वात् । व्यधिकरणासिद्धो यथा । अनित्यः
Aho! Shrutgyanam