________________
आगमपरिच्छेदः।
२८३
न ह वै सशरीरस्य प्रियाप्रिययोरपहतिरस्ति । अशरीरं वा वसन्तं प्रियाप्रिये न स्पृशत इत्यादि। अन्न प्रियाप्रियशब्देन सुखदुःखे । नहवैशब्दो निषेधार्थे । वाशब्द एवार्थे ।
त्तदेवं धिषणादीनां नवानामपि मूलतः ।
गुणानामात्मनो ध्वंस: मोऽपवर्ग: प्रकीर्तितः ॥ तस्याश्चावस्थायाम्।
स्वरूपैकप्रतिष्ठान: परित्यक्तोऽखिलेंगणैः ।
ऊर्मिषट्कान्तिमं रूपं तदस्थामनीषिण: ॥ अम्मयस्तु कामक्रोधमदगवलोभदम्भा इति ॥ १४६ ॥ सुख म्याप्यच्छेदः कुतोऽभिमत इति शिष्यः संपृच्छते ।
कस्मादिति ॥ प्रेक्षावत्प्रवृत्तः सुखमूलत्वात् मुखोच्छेदोऽनुचित इति भाव: ॥ १४७॥ प्रत्युत्तरयति ।
सुखदुःखयोरविनाभावित्वेन विवेक हानानुपपत्तरिति ॥ अस्त्र सुखदुःखशब्दावुपचारात् सुखदुःखहेतुवाच की। तयोवाविनाभावित्वात् सुखहेतूनां सद्भावेऽवश्यंभावन दुःखहेतुसद्भावाद्विवेकहानम् । सुखमादृत्य दुःखत्यागस्याघटनात् । अयमर्थः । मांसारिकमङ्गनाङ्ग परिषङ्गादि यत्सुखं तत्मचं दुःखानुपक्तम् । ततः सुखेऽनुभूत विषसंपृक्तामधुवहुःखं दुस्त्य जम् । सुखहेतूनामवश्यं दु:ख जनकले नाविनाभूतत्वात् । तथाहि सुखं दुःखानु.
Aho! Shrutgyanam