________________
२८३
न्यायतात्पर्य दीपिका।
एव कारोऽन्ययोगव्यवच्छेदार्थः ॥ १४४ ॥ अथ मोक्षविप्रतिपत्तिनिराचिकोषया प्रश्नमुत्थापयति ।
कः पुनरयं मोक्ष इति ॥ क इति। कोहक स्वरूपः । अयमिति । इदमा निर्देश: प्राक् प्रत्यासन्नभणनात्। अन्यथा तस्य परोक्षत्वात् तन्निर्देशो ऽनुचितः स्यादिति ॥ १४५ ॥
निराचिकौर्षयो लोक्यमोक्षस्वरूपं दर्शयति ।
एके तावदसायन्ति । समस्त विशेषगुणोच्छेदे संहारावस्थाया. माकाशवदात्मनोऽत्यन्तावस्थानं मोक्ष इति ॥
एके इति औलुक्या: । समस्त विशेषगुणोच्छ दे इति । समस्ताश्च ते विशेषगुणाश्च समस्त विशेषगुणा बद्धिसुखदुःखेच्छाहेषप्रयत्न धर्माधम्मसंस्काररूपा नवसंख्य कास्तेषामुच्छेदः सर्वथा प्रलय स्तस्मिन् । संसारावस्थायामिति प्रलयावस्थायाम् । आकाशवदिति आकाशस्येव । अत्यन्तावस्थानमिति सार्वदिको स्थितिः । प्रलयकालौना. मावस्थितिव्यपोहाधमत्यन्तावस्थानमित्युक्तम् । अयमर्थः । वैशषिकाणां मत चतुर्दशगुणाधिकरण आत्मा। तत्र चतुर्दशानां गुणानां मध्ये पञ्च गुणाः सामान्या बुद्धवादयो नव विशिष्टाः । यहि बुद्दादयो नव विशिष्टा गुणा: समुच्छिद्यन्ते तदा शिला शकलकल्पस्यात्मनोऽत्यन्तावस्थानं मोक्षो भवति । यथा प्रलयकाले विशिष्टगुणशब्दोच्छेदात् केवल स्थाकाशस्यावस्थानं भवति तथेत्यर्थः । तथाचानुमानं नवानामात्म विशेषगुणानां सन्तानोऽत्यन्तमच्छिद्यते सन्तानत्वात् प्रदीपसन्तानवदिति । तथागमोऽपि ।
Aho! Shrutgyanaml