________________
आगमपरिच्छेदः ।
तारतम्यरहितं वा अष्टाङ्गयोगवैशिट्यात् सर्वोत्कृष्टगुणविशिष्ट शिवं मा नात्कृत्य निःश्रेयममाघीयत इत्यर्थः ॥ १४२ ॥ अथ शिववीक्षणादेव मोक्षो भवतीत्याख्याति ।
यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः ।
तदा शिवमविज्ञाय दुःख स्यान्तो भविष्यति ॥ तमेव विदित्वातिमृत्युमति इत्यादि च ॥ ___ अविज्ञायेत्य स्याग्रे वर्तमानपुरुषस्येत्वध्याहार्यमन्यथैककर्तकवाभावात् त्वाप्रत्ययस्यासम्भवः स्यात् । दुःखस्यान्त इति मोक्षः । तमेवेति शिवम् । अति मृत्युमिति । अतिक्रान्तो मृत्यर्यत्र सोऽति. मृत्युर्मोक्षस्तम् । शिवदर्शनादेव मोक्ष इत्यत्र तमव विदित्वेत्यादिरागमः प्रमाण मुक्तम् । शेषं स्पष्टम् ।
अयं भावः । यथाकाशस्य चर्मवद्देष्टनं दुर्घटम् । तथा शिव. मविज्ञाय मानवानां मोक्षोऽपि दुर्घट इति । अत्र व्योमदृष्टान्ती व्यतिरेकेण विज्ञेयः । ___ ननु शिवदर्शनादेव मुक्तिश्चेतर्हि तप:क्लेशादिसहनं व्यर्थमिति चेन्न । तप:क्लेशादीनां पापक्षयहेतुत्वात् । क्षीणपाप्मनां च शिवदर्शनात् ॥ १४३ ॥ उपसंहरति ।
तस्माच्छिवदर्शनादेव मोक्ष इति ॥
--
--------
..
--------...... ... ..
. ... ... ..
... - ...-... -- --..-..
* The reading "ÍTHz pier' is mentioned in the fint notu wi Page 39.
३६
Aho! Shrutgyanam