________________
आगमपरिच्छेदः ।
*तत्र प्रत्ययैकतानता ध्यानमिति ॥
ध्यायते ध्यानम् । तत्र परमात्मादौ ध्येये हृत्प्रदेशे वा । प्रत्ययस्य ध्येयालम्बनस्य एकतानता प्रत्ययान्तरेणापरामृष्टस्तुल्यः ध्यानन्तु विषये तस्मिनेकप्रत्यय सन्तति
प्रवाहो ध्यानं भवति । रिति भणनात् ॥ १३८ ॥
समाधिस्वरूपं बोधयति ।
तदेवार्थनिर्भासमाचं स्वरूपशून्यमिव समाधिरिति ॥
सम्यगाधीयत इति समाधिः । तदेव ध्यानमेव । अर्थनिर्भासमात्रं ध्येयाकारमात्रावलम्वनमिदं ध्येयमहं ध्यायामीति मिथो भेदप्रत्ययात्मकेन स्वरूपेण शून्यमिव रहितमिव समाधिर्भवति । निखिलं विकल्पजालमुन्मूल्य यत्र चेतः परब्रह्मणि निलोयते स समाधिरित्यर्थः । निरस्तसमस्त विकल्पजालं परमानन्दलीनं च
चित्तं योगमार्गे सुलोनमित्युच्यते । तदुक्तं श्री योगशास्त्रे इह विक्षिप्तं यातायातं श्लिष्टं तथा सुलोनञ्च ! चेतश्चतुःप्रकारन्तञ्च चमत्कारकारि भवेत् ॥ विक्षिप्तञ्चलमिष्टं यातायातञ्च किमपि सानन्दम् | प्रथमाभ्यासे इयमपि विकल्पविषयग्रहं तत् स्यात् ॥ निष्टं स्थिरमानन्दं सुलोनमिति निखलं परानन्दम् । तन्मात्रक विषयग्रहमुभयमपि बुधैस्तदानातमिति ॥ १३८ ॥
*
२७८
6 The Text rends 'तबैकतानता ध्यानमिति" ( Sec page 39,
Line 3 ).
Aho! Shrutgyanam