________________
न्यायतात्पर्य दीपिका ।
समाकृष्य यदापानात् पूरणं स तु पूरकः ।
नाभिपद्मे स्थिरौलत्याराधनं स तु कुम्भकः ॥ ३ ॥ १३४ ॥ अथ वायुजयोपायमाह।
स च शनैः शनैर्जेतव्यो वनगजेन्द्रवदिति ॥ म त्रिप्रकारोऽपि वायुमन्दं मन्दं वशं नयो यथा वनगजेन्द्रः । मत्तो हि वनगज; शनःशनैजायमानोऽत्यन्तमुपकुरुते बलाच्च विकुरुते । एवं वायुरपीत्यर्थः ॥ १३५ ॥ प्रत्याहारस्वरूपं प्ररूपयति ।
समाधिप्रत्यनौकार्थेभ्यः समन्ताच्चेतसो व्यावर्तनं प्रत्याहार रति ।
प्रतीपमाहरणं विषयेभ्य इन्द्रियाणां प्रत्याहारः। समाधि परमब्रह्मणि चेतःस्थेमा तस्य प्रत्य नौकाः प्रतिकूला येऽर्था विषया. दयस्तेभ्यः सर्वथा यञ्चित्तस्य व्यावर्तनमिन्द्रियनिहत्तेश्चित्तनिहत्त्य धीनत्वात् । स प्रत्याहारो भवति। प्रत्याहारस्त्विन्द्रियाणां विषयेभ्यः समातिरिति वचनात् ॥ १३६ ॥ धारणां लक्षयति।
चित्तस्य देशसम्बन्धी धारणति ॥ धारणं धारगा। देश हृत्प्रदेश परमात्मनि वा चित्तस्य यः सम्बन्धः तनिष्ठता सा धारणा भवति ॥ १३ ॥ ध्यानमभिधत्ते।
Aho! Shrutgyanam