________________
आगमपरिच्छेदः ।
२६८
यत्रित्यत्वं प्रश्रितं तन्नित्यत्वाद्यापकत्वं सेत्स्यतीति प्रश्नयिचभि
प्रायः । कुत इति हेतोः ॥ ११६ ॥
प्रत्युत्तरयति ।
अनादित्वादिति ॥
अनादित्वमुत्पत्त्यादिराहित्यम् । तस्मादात्मनो
सिद्धाति । प्रयोगश्चैवं आत्मा नित्यो भावत्वे सत्यनादित्वाद्वरोमवदिति । भावत्वे सतीति विशेषणं प्रागभावेऽपि व्याप्तिपरि
हारार्थम् ॥ ११७ ॥ अनादित्वमेवानुयुङ्क्ते ।
तदेव कथमिति ॥
नित्यत्वं
तदेवेत्यनादित्वम् । कथमिति केन प्रकारेत्यर्थः ॥ ११८ ॥ अनादित्वं साधयति ।
जातमात्रे प्राणिनि जन्मान्तरानुभव सूचकस्म रग लिङ्ग स्य हर्षभयशोक स्तन्याभिलाषादेरुपलम्भादिति ॥
तत्कालोत्पन्ने देहिनि । जन्मान्तरेऽनुभवो जन्मान्तरानुभवस्तसूचकं यत् स्मरणं तलिङ्गस्य तचिह्नस्य हर्षादेर्दर्शनादालाऽनादिभवति । अयमर्थः । जातमात्रेऽपि प्राणिनि यर्षभयशोकस्तन्याभिलाषादि चेष्टितमुपलभ्यते तदेहभविकं न भवति । तदात्वजातत्वेन तदामीपननुभवात् । किं तु पारभविकम् । तेन च पूर्वभवानु स्मरणमनुमीयते | तद्यथा । जातमात्रप्राणिनो हर्षादिस्मरणं पूर्वभवानुभवपूर्वक स्मरणत्वात् संप्रतिपन्नस्मरणवदिति । चेह भवे प्राग्भवानुभूतं हर्षादि मय्यते । तथा पूर्वपूर्व्वभवे
यथा
Aho ! Shrutgyanam