________________
न्यायतात्पर्य्य दीपिका ।
समुदितावस्थानि चैतन्यं व्यनन्ति । मदशक्तिवदिति । शरीरादोनामात्मत्वनिषेधकयुक्तीनामुक्तत्वात् ।
२६८
ननु कायाकारपरिणतानि भूतान्येव स्वव्यतिरेकिण चेतनां विरचयन्ति । सा च कायाकारपरिणतेषु तेष्ववतिष्ठते । तदभावे तु तेष्वेव विलोयते । अतस्तद्दातिरिक्तो न कश्चिदात्मेति चेन्न । विचारासहत्वात् । तथाहि । किम्भूतानि भूतानि चेतनारचनायां व्याप्रियेरन् । किं सचैतन्यानि निश्चैतन्यानि वा । यद्याद्यः कल्पस्तर्हि तचैतन्यं तभ्यो व्यत्यरैचीनवा । व्यत्यरक्षोत् चेत्तर्हि भूतघटितदेहे सन्तिष्ठमानमपि तद्भूतविमदृशं स्वकारणमनुमापयतीत्यात्मा सिद्धप्रति । न व्यत्यरेचीञ्चेत् । तर्हि सर्वभूतानामैक्यं स्यादेक चैतन्याभिन्नत्वात्तत्स्वरूपवत् । स्वस्वचैतन्या भिन्नानि भूतानि तेनायं दोषो न भवतीति चेन्न । तनिष्पाद्यदेहेऽपि तज्जन्य वतुश्चैतन्यप्रसङ्गात् । चत्वापि संयुज्यातिमहचैतन्यमारभत इति चेत् । न । चैतन्यानामन्योऽन्यं मिश्रीभावाभादेन संयोगविरोधात् । अन्यथा बह्वात्मचैतन्यानि संयुज्य महत्तमं चैतन्यं निर्वर्तेरन् । तन्त्र सचैतन्यानि भूतानि चेतनाविरचने व्यापर्नुमर्हन्ति । नापि निश्येतन्यानि । तेषां नितान्तं वैलक्षण्येन चैतन्योत्पादायोगात् । अन्यथा कोरदूषकाः शाल्युत्पादने, व्याप्रियेरन् । व्यापकत्वं नित्यत्वं च पुरो वच्यति ॥ ११५ ॥ परः प्रश्नयति ।
नित्यत्वं कुत इति चेदिति ॥
यद्यप्युक्तानुक्रमेण प्राग् व्यापकत्वं प्रश्नयितुं युक्तम् । तथापि
Aho ! Shrutgyanam