________________
आगमपरिच्छेदः ।
नोलादिनानं सर्वमपि भ्रान्तं स्थादित्यतिप्रसङ्गस्ततो लाभमिच्छतो मूलक्षतिरेव तथेति ॥ ११३ ॥
किञ्च क्षणिकत्ववादिनो मते भ्रान्तमपि प्रत्यभिज्ञाज्ञानं न सम्भवतीत्याह।
अनभ्युपगमाच्च सादृश्यस्य णिकत्वे भ्रान्तिबीजाभाव इति ॥
क्षणिकत्वे क्षणिकवादिमत सादृश्यस्याखोकारात् प्रत्यभिज्ञाया भ्रान्तिबीजं सादृश्यं तस्याभाव एद। अयं भावः । प्रदीपादौ प्रत्यभिज्ञाज्ञानस्य भ्रान्तवं यदुच्यते। तत् पूर्वोत्तरप्रदीपक्षणानां स्थैर्यरूपं मादृश्यमादृत्य । तत् सादृश्यं त्वयाभ्युपमम्यते न वा। यद्यभ्युपगम्यते तर्हि क्षणिकत्वपक्षक्षतिः । सादृश्यस्य नित्यत्वात्। नाभ्युपगम्यते चेतर्हि सादृश्यस्यास्वीकारात् त्वन्मते भ्रान्तिबीजमेव न स्यात्तत: प्रत्यभिज्ञाप्रत्यक्षेण स्फटिकादिष्वक्षणिकत्वं गृह्यत इति युहामुक्तम् ॥ ११४ ॥ अथ प्रमेयमुपसंहरति ।
तदेतत्समेतत् शरीरादिव्यतिरिक्त आत्मा व्यापकी नित्य इति ।
शरीरादौत्यत्रादिशब्दादिन्द्रियग्रहः । शरीरादिव्यतिरिक्तइत्यनेन विशेषणेन तत् प्रत्यताम् । यदुत वाचस्पतिना । पृथिव्यापस्तेजो वायुरिति तत्त्वानि । तत्समुदाये शरीरविषयेन्द्रिय संज्ञास्तेभ्यश्चैतन्यम् । तथा प्रत्ये कम दृश्यमानचैतन्यान्यपि च भूतानि
Aho! Shrutgyanam