________________
न्यायतात्पर्यदीपिका ।
प्रत्यभिज्ञाख्येन च प्रत्यक्षेण स्फटिकादिष्वक्षणिकत्वं च गृह्यत इति ॥
प्रत्यभिजेति । दर्शनस्मरणप्रभवं ज्ञानं प्रत्यभिज्ञाख्यं प्रत्यक्षम् । स एवायं स्फटिको यो मया पूर्वमदर्शीति । पूर्वोत्तरविवर्त्तवयैकद्रव्यव्यवसायि प्रत्यभिज्ञाख्य प्रत्यक्षज्ञानेन स्फटिकादिपदार्थष्वक्षणिकत्वमुपलच्यते । यदि सर्वं क्षणिक भविष्यत्तर्हि स एवायं स्फटिक इति प्रत्यभिज्ञा भगवतो न प्रोदजृम्भिष्यत । प्रोज्जृम्भते चेयं तस्मात् क्षणिकत्वं नास्तीत्यर्थः ॥ १११ ॥
परमतमाशङ्कते ।
२६६
प्रदीपादिष्विव भ्रान्तमिति चेदिति ||
कम प्रदोपे कृते तस्मिन् प्रनष्टे प्रदीपान्तरे च रचिते स एवायं प्रदीप इति प्रत्यभिज्ञा भ्रान्ता तथा स्फटिकादिष्वक्षणिकत्वग्राहिणी प्रत्यभिज्ञा स्वान्तेत्यर्थः । प्रदीपादीत्यत्वादिशब्दाल्लनपुनर्जातनखकेशादिग्रहः ॥ ११२ ॥
परिहरति ।
न । एकत्र बाध्यत्वेन भ्रान्तत्वे सर्वत्र भ्रान्तत्वकल्पनायामति प्रसङ्गादितीति ॥
एकचेति प्रदीपादौ । सर्वचेति त्वदभिप्रेत नीलादिपरिज्ञानऽपि । अयमर्थः । यदि प्रदीपाद्येकत्वग्राहिणि प्रत्यभिज्ञाख्य प्रत्यक्षेऽयं स प्रदोषो न भवति भित्रकालजनितत्वात् प्रदीपान्तरवदित्यनुमानबाधात् भ्रान्ते सति स्फटिकादिष्वपि तान्तमित्युच्यते । तर्हि तत्राप्येकच नीलादिज्ञाने प्रमाणबाधाङ्कान्ते सति
Aho ! Shrutgyanam